श्रवणम्

10.83.5
अ॒भा॒गः सन्नप॒ परे᳚तो अस्मि॒ तव॒ क्रत्वा᳚ तवि॒षस्य᳚ प्रचेतः ।
तं त्वा᳚ मन्यो अक्र॒तुर्जि᳚हीळा॒हं स्वा त॒नूर्ब᳚ल॒देया᳚य॒ मेहि᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒भा॒गः । सन् । अप᳚ । परा᳚॑इतः । अ॒स्मि॒ । तव᳚ । क्रत्वा᳚ । त॒वि॒षस्य᳚ । प्र॒चे॒त॒ इति᳚ प्र॑चेतः ।
तम् । त्वा॒ । म॒न्यो॒ इति᳚ । अ॒क्र॒तुः । जि॒ही॒ळ॒ । अ॒हम् । स्वा । त॒नूः । ब॒ल॒॑देया᳚य । मा॒ । आ । इ॒हि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे मन्यो त्वमभिभूत्योजाः परेषामभिभावुकबलः स्वयम्भूः स्वयमेवोत्पन्नो भामः क्रुद्धोऽभिमातिषाहः। अभितो हिंसन्तीत्यभिमातयः शत्रवः। तेषामभिभविता विश्वचर्षणिः सर्वेषां द्रष्टा सहुरिः सहनशीलः सहावान् सहनवान् ईदृशस्त्वमस्मासु पृतनासु सङ्ग्रामेष्वोजो बलं धेहि। देहि॥५॥