श्रवणम्

10.39.13
ता व॒र्तिर्या᳚तं ज॒युषा॒ वि पर्व᳚त॒मपि᳚न्वतं श॒यवे᳚ धे॒नुम᳚श्विना ।
वृक᳚स्य चि॒द्वर्ति᳚काम॒न्तरा॒स्या᳚द्यु॒वं शची᳚भिर्ग्रसि॒ताम᳚मुञ्चतम् ॥
▶ पदपाठः (Word-by-word)
ता । व॒र्तिः । या॒त॒म् । ज॒युषा᳚ । वि । पर्व᳚तम् । अपि᳚न्वतम् । श॒यवे᳚ । धे॒नुम् । अ॒श्वि॒ना॒ ।
वृक᳚स्य । चि॒त् । वर्ति᳚काम् । अ॒न्तः । आ॒स्या᳚त् । यु॒वम् । शची᳚भिः । ग्र॒सि॒ताम् । अ॒मु॒ञ्च॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विना अश्विनौ ता तौ युवां जयुषा जयशीलेन रथेन पर्वतं अद्रिंप्रति वर्तिमार्गं वियातं विविधं गच्छथः । तथाचनिगमांतरं—विजयुषारथ्यायातमद्रिंश्रुतंहवंवृषणावध्रिमत्या इति । किंच युवं शयवे शयोरर्थाय धेनुं अपिन्वतं निवृत्तप्रसवां वृद्धां गां प्रभूतस्य पयसो दोगध्रीं कृतवंतौ स्थइत्यर्थः । तथाचनिगमांतरं—युवंधेनुंशयवेनाधितायापिन्वतमश्विनापूर्व्या यम् । किंच युवं युवां वृकस्यांतरनुप्रविष्टां ग्रसितां वृकेण ग्रस्तां वर्तिकां वर्तिकानाम चटका तामास्यात् वृकस्य मुखात् शचीभिः प्रज्ञाभिः कर्मभिर्वा अमुंचतं अमोचयतम् । तथाचनिग- मांतरं—अजोहवीदश्विनावर्तिकावामास्नोयत्सीममुंचतंवृकस्येति ॥ १३ ॥