श्रवणम्

10.39.3
अ॒मा॒जुर᳚श्चिद्भवथो यु॒वं भगो᳚॑ना॒शोश्चि᳚दवि॒तारा᳚प॒मस्य᳚ चित् ।
अ॒न्धस्य᳚ चिन्नासत्या कृ॒शस्य᳚ चिद्यु॒वामिदा᳚हुर्भि॒षजा᳚ रु॒तस्य᳚ चित् ॥
▶ पदपाठः (Word-by-word)
अ॒मा॒॑जुरः᳚ । चि॒त् । भ॒व॒थः॒ । यु॒वम् । भगः᳚ । अ॒ना॒शोः । चि॒त् । अ॒वि॒तारा᳚ । अ॒प॒मस्य᳚ । चि॒त् ।
अ॒न्धस्य᳚ । चि॒त् । ना॒स॒त्या॒ । कृ॒शस्य᳚ । चि॒त् । यु॒वाम् । इत् । आ॒हुः॒ । भि॒षजा᳚ । रु॒तस्य᳚ । चि॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे नासत्या नासत्यौ युवं युवां अमाजुरश्चित् पितृगृहे जूर्यन्त्याअपि दुर्भगायाघोषायाः भगोभवथः शोभनरूपेणात्मानं परिणमय्य पतिं दत्तवंतौ स्थइत्यर्थः । तथा च निगमांतरं- घोषायैचित्पितृषदेदुरोणेपतिंजूर्यंत्याअश्विनावदत्तमिति । अनाशोश्चित् अनशनस्याप्यवितारा रक्षितारौ युवां भवथः अपमस्य चित् जात्यादिनिकृष्टस्यापि रक्षितारौ भवथः अंधस्य चित् चक्षुर्विकलस्यापि रक्षितारौ भवथः कृशस्य चित् दुर्बलस्यापि रक्षितारौ भवथः । किंच युवामित् युवामेव ऋतस्यचित् यज्ञस्यापि भिषजा भिषजौ वैद्यावाहुर्विद्वांसः ॥ ३ ॥