त्राय᳚न्तामि॒ह दे॒वास्त्राय᳚तां म॒रुतां᳚ ग॒णः ।
त्राय᳚न्तां॒ विश्वा᳚ भू॒तानि॒ यथा॒यम᳚र॒पा अस᳚त् ॥
त्राय᳚न्तां॒ विश्वा᳚ भू॒तानि॒ यथा॒यम᳚र॒पा अस᳚त् ॥
पदपाठः (Word-by-word)
त्राय᳚न्ताम् । इ॒ह । दे॒वाः । त्राय᳚ताम् । म॒रुता᳚म् । ग॒णः ।
त्राय᳚न्ताम् । विश्वा᳚ । भू॒तानि᳚ । यथा᳚ । अ॒यम् । अ॒र॒पाः । अस᳚त् ॥
त्राय᳚न्ताम् । विश्वा᳚ । भू॒तानि᳚ । यथा᳚ । अ॒यम् । अ॒र॒पाः । अस᳚त् ॥
सायणभाष्यम् (Sayana Commentary)
इहास्मिन्देशे सर्वे देवास्त्रायन्ताम्। अस्मान्पालयन्ताम्। तथा मरुतां गणः सङ्घः स त्रायताम्। विश्वानि सर्वान्यन्यानि च भुतानि भूतजातानि त्रायन्ताम्। अस्मान्रक्षन्तु। यथायमस्मदीयः शरीरादिररपा असत् पापरहितो भवति तथेत्यर्थः। रप इति पापनाम। नञा बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदान्तोदात्तत्वम्। अस्तेर्लेट्यडागमः। यावद्यथाभ्याम्। पा. ८-१-३६। इति निघाताभावः॥५॥