श्रवणम्

10.107.3
दैवी᳚ पू॒र्तिर्दक्षि᳚णा देवय॒ज्या न क᳚वा॒रिभ्यो᳚ न॒हि ते पृ॒णन्ति᳚ ।
अथा॒ नर॒ः प्रय᳚तदक्षिणासो॑वद्यभि॒या ब॒हवः᳚ पृणन्ति ॥
▶ पदपाठः (Word-by-word)
दैवी᳚ । पू॒र्तिः । दक्षि᳚णा । दे॒व॒॑य॒ज्या । न । क॒व॒॑अ॒रिभ्यः᳚ । न॒हि । ते । पृ॒णन्ति᳚ ।
अथ᳚ । नरः᳚ । प्रय᳚त॑दक्षिणासः । अ॒व॒द्य॒॑भि॒या । ब॒हवः᳚ । पृ॒ण॒न्ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दैवी देवसम्बन्धिनी। देवाद्यञञौ। पा. ४-१-८५-३। इत्यञ्। तादृशी पूर्तिः पालिनी तत्साध्या देवयज्या। छन्दसि निष्टर्क्येति नोपातितः। देवयागः तदङ्गभूता दक्षिणा न कवारिभ्यः। ऋ गतावित्यस्याच इः। उ. ४-१३८। इतीप्रत्ययः। कुत्सितगन्तृभ्योऽयष्टृभ्यः। एतेभ्यो न भवति। यद्वा। देवानां स्वभूता पूर्तिः पूरयित्री स्तुतिभिर्हविर्भिश्च तादृशी देवयज्या दक्षिणा च तेभ्यो न भवतः। तत्र हेतुरुच्यते। हि यस्मात्ते कुत्सितगन्तारो नहि पृणन्ति देवान्स्तुतिभिर्हविर्भिवा न प्रीणयन्ति। पृण् प्रीणने तौदादिकः। अथेति प्रश्ने। यष्टॄणां देवयागादि कथं भवति। उच्यते। नरः कर्माणां नेतारः अत एव प्रयतदक्शिणासो दत्तदक्षिणा बह्वओ यजमाना अवद्यभिया। अवद्यपण्यवर्या गर्ह्येति। पा. ३-१-१०१। यत्प्रत्ययान्तत्वेन निपातितः। पापभिया। विहिताननुष्ठाने दुरितानि भवन्ति खलु। तस्मात्तद्भीत्या पृणन्ति। देवान्प्रीणयन्ति। तस्माद्यश्टॄणाम् देवपालनयागदक्षिणा भवतीत्यर्थः॥३॥