श्रवणम्

10.142.8 समानपद
आय᳚ने ते प॒राय᳚णे॒ दूर्वा᳚ रोहन्तु पु॒ष्पिणी᳚ः ।
ह्र॒दाश्च᳚ पु॒ण्डरी᳚काणि समु॒द्रस्य᳚ गृ॒हा इ॒मे ॥
▶ पदपाठः (Word-by-word)
आ॒॑अय᳚ने । ते॒ । प॒रा॒॑अय᳚ने । दूर्वाः᳚ । रो॒ह॒न्तु॒ । पु॒ष्पिणीः᳚ ।
ह्र॒दाः । च॒ । पु॒ण्डरी᳚काणि । स॒मु॒द्रस्य᳚ । गृ॒हाः । इ॒मे ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनयापि स्वनिवासस्य दाहानर्हता प्रतिपाद्यते। हे अग्ने ते तवायन आगमने पारायने परागमने वा सत्यस्यां निवासभूमौ पुष्पिणीः पुष्पवत्यो दूर्वा रोहन्तु। प्ररोहन्तु। तथा ह्रदा अशोष्योदका जलाशयाश्च भवन्तु। पुण्डरीकाणि पद्मानि च तेषु ह्रदेषु जायन्ताम्। किं बहुना। समुद्रस्य जलधेरिमेऽस्मिन्निवासप्रदेशे गृहा आश्रयभूता भवन्तु। यथा समुद्रावासभूमिः कदाचिदपि न दह्यते एवं कदाचिदप्यस्मत्स्थानं न दह्यतामित्यर्थः। एतदुक्तं भवति। दूर्वाकाण्डप्ररोहणप्रार्थनेन स्वाश्रयस्य शीतलत्वं ह्रदप्रार्थनेन तृष्णोपशमनकारणस्य जलस्य सत्त्वम् पुण्डरिकसद्भावप्रार्थनेनोपभोग्यस्य फलादेः सत्ता समुद्रग्रुहत्वप्रार्थनेन दाहानार्हता चेत्येतत्सर्वं प्रतिपाद्यत इति॥८॥

वेदार्थस्य प्रकाशेन तमे हार्दं निवारयन्। पुमार्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तक श्री वीरबुक्कभुपाल साम्राज्य धुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थ प्रकाशे ऋक्संहिताभाष्ये

अष्टमाष्टके सप्तमोऽध्यायः समाप्तः॥