श्रवणम्

10.142.4
यदु॒द्वतो᳚ नि॒वतो॒ यासि॒ बप्स॒त्पृथ᳚गेषि प्रग॒र्धिनी᳚व॒ सेना᳚ ।
य॒दा ते॒ वातो᳚ अनु॒वाति᳚ शो॒चिर्वप्ते᳚व॒ श्मश्रु᳚ वपसि॒ प्र भूम᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । उ॒त्॑वतः᳚ । नि॒॑वतः᳚ । यासि᳚ । बप्स᳚त् । पृथ᳚क् । ए॒षि॒ । प्र॒ग॒र्धिनी᳚॑इव । सेना᳚ ।
य॒दा । ते॒ । वातः᳚ । अ॒नु॒॑वाति᳚ । शो॒चिः । वप्ता᳚॑इव । श्मश्रु᳚ । व॒प॒सि॒ । प्र । भूम᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्यदोद्वत उद्गतानुच्छ्रितान् निवतो नीचिनांस्तरुगुल्मादीन् हे अग्ने बप्सद्दहन्यासि प्राप्नोषि तदानीं बह्वीभिर्ज्वालाभिः पृथग्विभिन्नः सन्नेषि। गच्छसि। तत्र दृष्टान्तः। प्रगर्धिनीव सेना। गृधु अभिकाङ्क्षायाम्। परराष्ट्रं गच्छतो राज्ञह् सेना तत्रत्यं धनजातमभिकाङ्क्षमाणेतस्ततः सङ्घशो गच्छाति तद्वत्। वातो वायुश्च ते तव शोचिः दीप्तिं यदा यस्मिन्कालेऽनुवाति अनुगुनं प्रवर्तते तदाश्मश्रु। श्म शरीरम्। तत्र श्रितं स्थितं केशरोमादिकं वस्तेव यथा वप्ता नापितो वपति मुण्डयति तथा भूम भूमिं प्र वपसि। प्रकर्षेण मुण्डयसि। सर्वं वनं निःशेषेण दहसीत्यर्थः॥४॥