श्रवणम्

10.142.3
उ॒त वा उ॒ परि᳚ वृणक्षि॒ बप्स᳚द्ब॒होर᳚ग्न॒ उल᳚पस्य स्वधावः ।
उ॒त खि॒ल्या उ॒र्वरा᳚णां भवन्ति॒ मा ते᳚ हे॒तिं तवि᳚षीं चुक्रुधाम ॥
▶ पदपाठः (Word-by-word)
उ॒त । वा॒ । ऊं॒ इति᳚ । परि᳚ । वृ॒ण॒क्षि॒ । बप्स᳚त् । ब॒होः । अ॒ग्ने॒ । उल᳚पस्य । स्व॒धा॒॑वः॒ ।
उ॒त । खि॒ल्याः । उ॒र्वरा᳚णाम् । भ॒व॒न्ति॒ । मा । ते॒ । हे॒तिम् । तवि᳚षीम् । चु॒क्रु॒धा॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे स्वधावो दीप्तिमन्नग्ने बप्सद्दहन्। भस भर्त्सनदिप्त्योः। चौहोत्यादिकः। शतरि घसिभसोर्हलि च। पा. ६-४-१००। इत्युपधालोपः। नाभ्यस्ताच्छतुरिति नुमः प्रतिषेधः। बहोर्बहुलस्योलपस्य तृणजातस्य। कर्मणि षष्ठी। सर्वं वनमुत वा अपि खलु परि वृणक्षि। परिवर्जयसि। विनाशयसि। उ इति पूरकः। उतापि चोर्वराणाम्। सस्याढ्या भूमय उर्वराः। तासां सम्बन्धिनः प्रदेशाः खिल्याः खिलाः प्राणिभिर्गन्तुं योग्या भवन्ति। त्वया दग्धा इति शेशः। तविषीं महतीं ते तव हेतिं हननहेतुभूतां ज्वालं मा चुक्रुधाम। मा क्रोधयाम। अपि तु स्तुतिभिः प्रसाधयाम। ऊतियूतीत्यादिना हन्तेः क्तिनि हेतिरित्यन्तोदात्तो निपात्यते। चुक्रुधामेति क्रुधेर्ण्यन्ताल्लुङि चङि रूपम्॥३॥