श्रवणम्

10.142.7
अ॒पामि॒दं न्यय᳚नं समु॒द्रस्य᳚ नि॒वेश᳚नम् ।
अ॒न्यं कृ᳚णुष्वे॒तः पन्थां॒ तेन᳚ याहि॒ वशा{4}॒ अनु᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒पाम् । इ॒दम् । नि॒॑अय᳚नम् । स॒मु॒द्रस्य᳚ । नि॒॑वेश᳚नम् ।
अ॒न्यम् । कृ॒णु॒ष्व॒ । इ॒तः । पन्था᳚म् । तेन᳚ । या॒हि॒ । वशा᳚न् । अनु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इत्थं खाण्डववनस्य दाहे प्रवृत्तमग्निं जरित्रुप्रभृतयः स्वात्मनो रक्षणकामास्तुष्टुवुः। इदानीं च स्तम्बमित्रः स्वनिवासभूमेर्दहनाभावायाग्नेरन्यत्र गमनं प्रार्थयते। इदमस्मदीयं निवासस्थानमपामुदकानां न्ययनम्। नियन्ति नितराम् गच्छन्त्यस्मिन्निति न्ययनं ह्रदः। तथा समुद्रस्योदधेश्च निवेशनं ग्रुहम्। यथा ह्रदः समुद्रस्य स्थानं च यथा दुग्धुं न शक्यते तथा दाहयोग्यं न भवत्वित्यर्थः। इतोऽस्मादस्मदीयात्स्थानादन्यं पन्थां पन्थानं मार्गं हे अग्ने कृणुष्व। कुरुष्व। तेन पथा वशाननु यथाकामं याहि। गच्छ॥७॥