श्रवणम्

10.13.2
य॒मे इ᳚व॒ यत᳚माने॒ यदैतं॒ प्र वां᳚ भर॒न्मानु᳚षा देव॒यन्त᳚ः ।
आ सी᳚दतं॒ स्वमु᳚ लो॒कं विदा᳚ने स्वास॒स्थे भ᳚वत॒मिन्द᳚वे नः ॥
▶ पदपाठः (Word-by-word)
य॒मे इ॒वेति᳚ य॒मे॑इ᳚व । यत᳚माने॒ इति᳚ । यत् । ऐत᳚म् । प्र । वा॒म् । भ॒र॒न् । मानु᳚षाः । दे॒व॒॑यन्तः᳚ ।
आ । सी॒द॒त॒म् । स्वम् । ऊं॒ इति᳚ । लो॒कम् । विदा᳚ने॒ इति᳚ । स्वा॒स॒स्थे इति᳚ सु॒॑आ॒स॒स्थे । भ॒व॒त॒म् । इन्द᳚वे । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यमे इव यथा सहोत्पन्ने अपत्ये संचरतः तथा यतमाने गमनहविर्धारणादिस्वाधि- कारकर्मणि प्रवर्तमाने हविर्धानशकटे युवां यद्यदा एतं हविर्धानस्थानं प्रतिगच्छतः । तथा देवयन्तोदेवकामाः मानुषायजमानाः वां युवां प्रभरन् प्रभरन्ति । किंच युवां स्वमु लोकं आत्मीयमेव हविर्धानाख्यं स्थानं विदाने जानती आसीदतं ततः नोस्माकं इन्दवे सोमार्थं स्वासस्थे शोभननिवासास्थाने भवतं ॥ २ ॥