श्रवणम्

10.102.7
उ॒त प्र॒धिमुद᳚हन्नस्य वि॒द्वानुपा᳚युन॒ग्वंस᳚ग॒मत्र॒ शिक्ष᳚न् ।
इन्द्र॒ उदा᳚व॒त्पति॒मघ्न्या᳚ना॒मरं᳚हत॒ पद्या᳚भिः क॒कुद्मा᳚न् ॥
▶ पदपाठः (Word-by-word)
उ॒त । प्र॒॑धिम् । उत् । अ॒ह॒न् । अ॒स्य॒ । वि॒द्वान् । उप᳚ । अ॒यु॒न॒क् । वंस᳚गम् । अत्र᳚ । शिक्ष᳚न् ।
इन्द्रः᳚ । उत् । आ॒व॒त् । पति᳚म् । अघ्न्या᳚नाम् । अरं᳚हत । पद्या᳚भिः । क॒कुत्॑मा᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापि च विद्वान् स मुद्गलोऽस्य रथस्य प्रधिम्। प्रधिरक्षच्छिद्रकाष्ठः स च रथावयवानामुपलक्शकः। रथावयवमुदहन्। उदगमयत्। रथं सन्ननाहेत्यर्थः। तदनन्तरमत्र रथे वंसगं वननीयगमनं वृषभं शिक्षञ्शिक्षयन्रज्जुषु स्थापयन्नुपायुनक्। रथसमीपे युगेऽयोजयत्। युजेर्लङि तिपो हल्ङ्यादिलोपः। एवं सतीन्द्रो देवोऽघ्न्यानामहन्तव्यानां गवां पतिमुदावत्। उत्कृष्टमावत्। रक्षामकरोत्। पश्चात्ककुद्मान्वृषभः पद्याभिः सरणिभिररंहत। वेगेनागमत्। रहिर्गत्यर्थः॥७॥