न्य᳚क्रन्दयन्नुप॒यन्त᳚ एन॒ममे᳚हयन्वृष॒भं मध्य᳚ आ॒जेः ।
तेन॒ सूभ᳚र्वं श॒तव᳚त्स॒हस्रं॒ गवां॒ मुद्ग᳚लः प्र॒धने᳚ जिगाय ॥
तेन॒ सूभ᳚र्वं श॒तव᳚त्स॒हस्रं॒ गवां॒ मुद्ग᳚लः प्र॒धने᳚ जिगाय ॥
पदपाठः (Word-by-word)
नि । अ॒क्र॒न्द॒य॒न् । उ॒प॒॑यन्तः᳚ । ए॒न॒म् । अमे᳚हयन् । वृ॒ष॒भम् । मध्ये᳚ । आ॒जेः ।
तेन᳚ । सूभ᳚र्वम् । श॒त॑व᳚त् । स॒हस्र᳚म् । गवा᳚म् । मुद्ग᳚लः । प्र॒॑धने᳚ । जि॒गा॒य॒ ॥
तेन᳚ । सूभ᳚र्वम् । श॒त॑व᳚त् । स॒हस्र᳚म् । गवा᳚म् । मुद्ग᳚लः । प्र॒॑धने᳚ । जि॒गा॒य॒ ॥
सायणभाष्यम् (Sayana Commentary)
मुद्गल आह। तेनेति तच्छब्दश्रुतेर्यच्छब्दाध्याहारः। यमेनं व्रुषभं न्यक्रन्दयन् नितरां क्रन्दनमकुर्वन्। के। उपयन्तः समीपे गच्छन्तो नरः। यथा प्रचण्डेन क्रन्दनेन शत्रवो भीताः पलायन्ते तथाकुर्वन्। किम्। वृषभं वर्षकं सेक्तारमाजेः सङ्ग्रामस्य मध्येऽमेहयन् मूत्रपुरीशोत्सर्गं विश्रामार्थं कारितवन्तः सूभर्वम्। भर्वतिरत्तिकर्मा। शोभनचर्मणादिभक्शकम् । तादृशो यथा भवति तथा कृत्वेत्यर्थः। यद्वा। एतद्गोसहस्रविशेषणम्। तेनोक्तरूपेण वृषभेण सूभर्वं सुष्ठु यवसास्वादि शतवच्छतोपेतं गवां सहस्रंमुद्गल एतन्नामाहं प्रधने सङ्ग्रामे जिगाय। अजैषम्॥५॥