श्रवणम्

10.102.8
शु॒नम᳚ष्ट्रा॒व्य᳚चरत्कप॒र्दी व᳚र॒त्रायां॒ दार्वा॒नह्य᳚मानः ।
नृ॒म्णानि᳚ कृ॒ण्वन्ब॒हवे॒ जना᳚य॒ गाः प᳚स्पशा॒नस्तवि᳚षीरधत्त ॥
▶ पदपाठः (Word-by-word)
शु॒नम् । अ॒ष्ट्रा॒॑वी । अ॒च॒र॒त् । क॒प॒र्दी । व॒र॒त्राया᳚म् । दारु᳚ । आ॒॑नह्य᳚मानः ।
नृ॒म्णानि᳚ । कृ॒ण्वन् । ब॒हवे᳚ । जना᳚य । गाः । प॒स्प॒शा॒नः । तवि᳚षीः । अ॒ध॒त्त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

शुनमिति सुखनाम। सुखं यथा भवति तथा। अष्ट्रावी। अष्ट्रा प्रतोदः। तद्वान्। छान्दसो विनिः। कपर्दी कपर्दवानचरत्। सञ्चरति। किं कुर्वन्। वरत्रायां वध्र्यां दारु काष्ठं रथाङ्गभुतमानह्यमानः सर्वतो बध्नन्। पुनः किं कुर्वन्। बहवे जनाय स्वपुत्रभृत्यादिलक्शणाय नृम्णानि धनानि शत्रुसम्बन्धीनि सुखानि वा कृण्वन्। गाः पस्पशानः स्पृशन्। स्पश बाधनस्पर्शनयोः। छान्दसो लिटि कानच्। एवं कुर्वंस्तविषीर्बलान्यधत्त। धत्ते। जयं प्राप्नोतीत्यर्थः॥८॥