श्रवणम्

10.102.3
अ॒न्तर्य᳚च्छ॒ जिघां᳚सतो॒ वज्र᳚मिन्द्राभि॒दास᳚तः ।
दास᳚स्य वा मघव॒न्नार्य᳚स्य वा सनु॒तर्य᳚वया व॒धम् ॥
▶ पदपाठः (Word-by-word)
अ॒न्तः । य॒च्छ॒ । जिघां᳚सतः । वज्र᳚म् । इ॒न्द्र॒ । अ॒भि॒॑दास᳚तः ।
दास᳚स्य । वा॒ । म॒घ॒॑व॒न् । आर्य᳚स्य । वा॒ । स॒नु॒तः । य॒व॒य॒ । व॒धम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र जिघांसतो हन्तुमिच्छतोऽभिदासतोऽभिद्रुह्यतः शत्रोर्वज्रमन्तर्यच्छ। अन्तर्गमय। तदेवाह। हे मघवन्धनवन्निन्द्र दासस्य वोपक्षीणस्याल्पस्यार्यस्यभिगन्तव्यस्य महतो वा शत्रोर्वधम्। वज्रनामैतत्। हननसाधनं वज्रं सनुतः। अन्तर्हितनामैतत्। अन्तर्हितं गूढं प्रयुज्यमानं यवय। पृथक्कुरु॥३॥