श्रवणम्

10.102.6
क॒कर्द᳚वे वृष॒भो यु॒क्त आ᳚सी॒दवा᳚वची॒त्सार᳚थिरस्य के॒शी ।
दुधे᳚र्यु॒क्तस्य॒ द्रव᳚तः स॒हान᳚स ऋ॒च्छन्ति᳚ ष्मा नि॒ष्पदो᳚ मुद्ग॒लानी᳚म् ॥
▶ पदपाठः (Word-by-word)
क॒कर्द᳚वे । वृ॒ष॒भः । यु॒क्तः । आ॒सी॒त् । अवा᳚वचीत् । सार᳚थिः । अ॒स्य॒ । के॒शी ।
दुधेः᳚ । यु॒क्तस्य᳚ । द्रव᳚तः । स॒ह । अन᳚सा । ऋ॒च्छन्ति᳚ । स्म॒ । निः॒॑पदः᳚ । मु॒द्ग॒लानी᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ककर्दवे हिंसनाय शत्रूणां वृषभो वर्षिता गौर्युक्त आसीत्। रथे सम्बद्धोऽभूत्। केशी केशवान् प्रग्रहवानस्य राज्ञो रथस्य वा सारथिः। मुद्गलानीत्यर्थः। सारथ्यभिप्रायेण केशीति पुल्लिङ्गता। अवावचीत्। वृषभभयजनकं शत्रुभयजनकं वाक्रोशमकरोत्। अथवा। केशी केशिनी सारथिरस्य। अमुमित्यर्थः। अमुं वृशभं शब्दमकारयत्। वच परिभाषण इत्यस्य केवलस्यान्तर्णीतण्यर्थस्य यङ् लुगन्तस्य लुङि रूपम् । अथवा। अस्य सारथिः सहायभूतः केशी प्रकृष्टकेशो वृषभोऽवावचित्। भृशमशब्दयत्। एवंभूतस्य दुधेर्दुर्धरस्यानसा सह द्रवतः शीघ्रं शत्रुमध्ये रथेन सह धावतो वृषभस्य भयङ्ग्करशब्देन निष्पदो निर्गच्छन्तो योद्धारो मुद्गलानीं मुद्गलस्य योषितं सारथिभुतां प्रत्युच्छन्ति ष्म। आगच्छन्नित्यर्थः। पाघ्रेत्यादिनर्च्छादेशः॥६॥