श्रवणम्

10.70.4
वि प्र᳚थतां दे॒वजु᳚ष्टं तिर॒श्चा दी॒र्घं द्रा॒घ्मा सु᳚र॒भि भू᳚त्व॒स्मे ।
अहे᳚ळता॒ मन᳚सा देव बर्हि॒रिन्द्र᳚ज्येष्ठा{4} उश॒तो य᳚क्षि दे॒वान् ॥
▶ पदपाठः (Word-by-word)
वि । प्र॒थ॒ता॒म् । दे॒व॑जु᳚ष्टम् । ति॒र॒श्चा । दी॒र्घम् । द्रा॒घ्मा । सु॒र॒भि । भू॒तु॒ । अ॒स्मे इति᳚ ।
अहे᳚ळता । मन᳚सा । दे॒व॒ । ब॒र्हिः॒ । इन्द्र᳚॑ज्येष्ठान् । उ॒श॒तः । य॒क्षि॒ । दे॒वान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे बर्हिर्नामकाग्ने देवजुष्टं देवैः सेवितं तिरश्चा तिरश्चीनं तिर्यगञ्चनमिदं बर्हिर्वि प्रथताम् । विशेषेण विस्तृतं भवतु। तथा दीर्घं चेदं द्राघ्मादाघिम्ना। दीर्घशब्दस्येमनिचि प्रियस्थिरेत्यादिना द्राघिरादेशः। अकारस्येकारोवर्णव्यापत्त्या। पश्चादल्लोपः। द्राघिम्ना युक्तं भवतु। अस्मे अस्मदीयम् बर्हिः सुरभि सोमादिहविर्निधानेन सुगन्धं भूतु। भवतु। हे देव द्योतमान हे बर्हिरेतन्नामकाग्ने अहॆळता। हेल इति क्रोधनाम। आक्रुध्यता मनसोशतो हवींषि कामयामानानिन्द्रज्येष्ठानिन्द्रप्रधानान्देवान्यक्षि। या। पूजय॥४॥