श्रवणम्

10.70.2
आ दे॒वाना᳚मग्र॒यावे॒ह या᳚तु॒ नरा॒शंसो᳚ वि॒श्वरू᳚पेभि॒रश्वै᳚ः ।
ऋ॒तस्य᳚ प॒था नम᳚सा मि॒येधो᳚ दे॒वेभ्यो᳚ दे॒वत᳚मः सुषूदत् ॥
▶ पदपाठः (Word-by-word)
आ । दे॒वाना᳚म् । अ॒ग्र॒॑यावा᳚ । इ॒ह । या॒तु॒ । नरा॒शंसः᳚ । वि॒श्व॑रू᳚पेभिः । अश्वैः᳚ ।
ऋ॒तस्य᳚ । प॒था । नम᳚सा । मि॒येधः᳚ । दे॒वेभ्यः᳚ । दे॒व॑त᳚मः । सु॒सू॒द॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवानामग्रयावाग्रे गन्ता नराशंसः। उभे वनस्पत्यादिषु युगपदिति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम्। नरैः शंसनीय एतन्नामकोऽग्निर्विश्वरूपेभिर्नानारूपैरश्वै रोहिदाख्यैः सहेहास्मिन्यज्ञ आ यातु। आगत्य च मियेधो मेध्यो यज्ञहितः स्तुतियोग्यो वा देवतमो देवानां मुख्यः सोऽग्निर्हविर्नयनयोग्येनर्तस्य यज्ञस्य पथा मार्गेन नमसा स्तोत्रेण सह देवेभ्य इन्द्रादिभ्यह् सुषूदत्। हविः प्रेरयतु॥२॥