देव᳚ त्वष्ट॒र्यद्ध᳚ चारु॒त्वमान॒ड्यदङ्गि᳚रसा॒मभ᳚वः सचा॒भूः ।
स दे॒वानां॒ पाथ॒ उप॒ प्र वि॒द्वा{4} उ॒शन्य᳚क्षि द्रविणोदः सु॒रत्न᳚ः ॥
स दे॒वानां॒ पाथ॒ उप॒ प्र वि॒द्वा{4} उ॒शन्य᳚क्षि द्रविणोदः सु॒रत्न᳚ः ॥
पदपाठः (Word-by-word)
देव᳚ । त्व॒ष्टः॒ । यत् । ह॒ । चा॒रु॒॑त्वम् । आन᳚ट् । यत् । अङ्गि᳚रसाम् । अभ᳚वः । स॒चा॒॑भूः ।
सः । दे॒वाना᳚म् । पाथः᳚ । उप᳚ । प्र । वि॒द्वान् । उ॒शन् । य॒क्षि॒ । द्र॒वि॒णः॒॑दः॒ । सु॒॑रत्नः᳚ ॥
सः । दे॒वाना᳚म् । पाथः᳚ । उप᳚ । प्र । वि॒द्वान् । उ॒शन् । य॒क्षि॒ । द्र॒वि॒णः॒॑दः॒ । सु॒॑रत्नः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
त्वाष्ट्रस्य पशोर्वपायागस्य देव त्वष्टरिति याज्या। सूत्रितं च। देव त्वष्टर्यद्ध चारुत्वमानट् पिशङ्गरूपः सुभरो वयोधाः। आ. ३-८। इति॥
हे देव त्वष्टरेतन्नामक त्वं यच्चरुत्वं हविर्भिः कल्याणरूपत्वमानट् प्राप्तवान्। अश्नोतेर्लिटि प्रत्ययस्य लुक्। यच्च त्वमङ्गिरसामस्माकं सचाभूः सहभावी सखाभवः। हे द्रविणोदो धनस्य दातः अव एव सुरत्नः सुधनः स त्वमुशन्हवींषि कामयमानः सन् विद्वान् आस्येदमस्येदमिति प्रजानन्देवानां पाथोऽन्नमुप यक्षि। उपयज। तेभ्यः प्रयच्छा॥९॥