इ॒ह श्रु॒त इन्द्रो᳚ अ॒स्मे अ॒द्य स्तवे᳚ व॒ज्र्यृची᳚षमः ।
मि॒त्रो न यो जने॒ष्वा यश᳚श्च॒क्रे असा॒म्या ॥
मि॒त्रो न यो जने॒ष्वा यश᳚श्च॒क्रे असा॒म्या ॥
पदपाठः (Word-by-word)
इ॒ह । श्रु॒तः । इन्द्रः᳚ । अ॒स्मे इति᳚ । अ॒द्य । स्तवे᳚ । व॒ज्री । ऋची᳚षमः ।
मि॒त्रः । न । यः । जने᳚षु । आ । यशः᳚ । च॒क्रे । असा᳚मि । आ ॥
मि॒त्रः । न । यः । जने᳚षु । आ । यशः᳚ । च॒क्रे । असा᳚मि । आ ॥
सायणभाष्यम् (Sayana Commentary)
इहास्मिन् यज्ञे इन्द्रः श्रुतः प्रख्यातः अद्यास्मिन् दिवसे अस्मे अस्माभिः स्तवे स्तूय- ते । कीदृशः वज्री वज्रवान् ऋचीषमः । यद्यावइन्द्रतेशतंशतंभमीरुतस्युः नत्वावज्रित्यादि- कया स्तुत्या समानगुणइत्यर्थः । यइन्द्रः मित्रोन सूर्यइव स्निग्धइव वा जनेषु यशः अन्नं कीर्तिं च वा चक्रे करोति । कीदृशं असामि असाधारणं सइन्द्रः अस्माभिः स्तूयतइति पूर्वेण संबन्धः ॥ २ ॥