त्वं त्या चि॒द्वात॒स्याश्वागा᳚ ऋ॒ज्रा त्मना॒ वह᳚ध्यै ।
ययो᳚र्दे॒वो न मर्त्यो᳚ य॒न्ता नकि᳚र्वि॒दाय्य᳚ः ॥
ययो᳚र्दे॒वो न मर्त्यो᳚ य॒न्ता नकि᳚र्वि॒दाय्य᳚ः ॥
पदपाठः (Word-by-word)
त्वम् । त्या । चि॒त् । वात᳚स्य । अश्वा᳚ । आ । अ॒गाः॒ । ऋ॒ज्रा । त्मना᳚ । वह᳚ध्यै ।
ययोः᳚ । दे॒वः । न । मर्त्यः᳚ । य॒न्ता । नकिः᳚ । वि॒दाय्यः᳚ ॥
ययोः᳚ । दे॒वः । न । मर्त्यः᳚ । य॒न्ता । नकिः᳚ । वि॒दाय्यः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
यच्छब्दसंबन्धादुत्तरतोर्धर्चः पूर्वं व्याख्यायते—ययोस्त्वदीययोरश्वयोर्यन्ता नियन्ता नि वारयिता देवोन देवानां मध्ये कश्चिदपि देवोनास्ति । नकिर्न कश्चिदपि विदाय्यः वेत्ता जवस्य बलस्येति वा शेषः । हे इन्द्र त्वं वातस्य वायोर्जवेन बलेन च युक्तौ ऋज्रा ऋ- जुगामिनौ त्या चित् तावपि अस्वात्वदीयावश्वौ त्मना आत्मनैव सारथिनिरपेक्षेणेत्यर्थः वहध्यै वहनार्थं अभिप्रेतदेशप्रापणायेत्यर्थः आगाः आभिमुख्येन गच्छसि ॥ ५ ॥