श्रवणम्

10.22.4
यु॒जा॒नो अश्वा॒ वात᳚स्य॒ धुनी᳚ दे॒वो दे॒वस्य᳚ वज्रिवः ।
स्यन्ता᳚ प॒था वि॒रुक्म᳚ता सृजा॒नः स्तो॒ष्यध्व᳚नः ॥
▶ पदपाठः (Word-by-word)
यु॒जा॒नः । अश्वा᳚ । वात᳚स्य । धुनी॒ इति᳚ । दे॒वः । दे॒वस्य᳚ । व॒ज्रि॒॑वः॒ ।
स्यन्ता᳚ । प॒था । वि॒रुक्म᳚ता । सृ॒जा॒नः । स्तो॒षि॒ । अध्व᳚नः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वज्रिवः वज्रवन्निन्द्र एकोमत्वर्थीयोनुवादकः देवोद्योतमानस्त्वं देवस्य द्योतमानस्य वातस्य वायोः धुनी प्रेरकौ वायोरपिशीघ्रगामिनावित्यर्थः अश्वा अश्वौ त्वदीयौ हरिनाम- कौ युजानःस्वरथे संयोजयन् । कीदृशौ विरुक्मता विरोचनवता पथा मार्गेण स्यन्ता स्य- न्तौ गच्छन्तौ अध्वनः युद्धे गमनमार्गान् सृजानः उत्पादयन् स्तोषि सततं स्तूयसे ॥ ४ ॥