श्रवणम्

10.22.14
अ॒ह॒स्ता यद॒पदी॒ वर्ध᳚त॒ क्षाः शची᳚भिर्वे॒द्याना᳚म् ।
शुष्णं॒ परि᳚ प्रदक्षि॒णिद्वि॒श्वाय᳚वे॒ नि शि᳚श्नथः ॥
▶ पदपाठः (Word-by-word)
अ॒ह॒स्ता । यत् । अ॒पदी᳚ । वर्ध᳚त । क्षाः । शची᳚भिः । वे॒द्याना᳚म् ।
शुष्ण᳚म् । परि᳚ । प्र॒॑द॒क्षि॒णित् । वि॒श्व॑आ᳚यवे । नि । शि॒श्न॒थः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र यद्यदा क्षाः भूमिः अहस्ता पाणिरहिता अपदी चरणजिंता च अमनुष्यकर्म- केत्यर्थः वेद्यानां स्तोत्रयोग्यानां त्वत्प्रभृतीनां देवानां संबन्धिभिः शाचीभिः कर्मभिर्वर्धत अवर्धत धनधान्यादिभिः समृद्धेत्यर्थः । तदा त्वं परिप्रदक्षिणित् एवंभूतां पृथिवीं परिवे- ष्ट्य प्रदक्षिणं यथा भवति तथा स्थितं शुष्णमसुरं विश्वायवे तादर्थ्ये चतुर्थी सर्वत्राप्रति हतगामिनः एतदाख्यस्य और्वशेयराज्ञोर्थाय विशिश्नथः नितरां ताडितवानसि । यद्वा यदा शुष्णस्याच्छादनार्थं हस्तपादवर्जिता काचित् पृथिवी वेदितव्यानामसुराणां मायारूपैः कर्मभिः शुष्णं असुरं वेष्ट्य प्रदक्षिणं यथा भवति तथावस्थितावर्धत तदानीं तां मायोत्पा दितां पृथिवीं विश्वायते सर्वव्यापकस्य मरुद्गणस्य प्रवेशनार्थं निशिश्नथः नितरां हतवा- नसि ॥ १४ ॥