श्रवणम्

10.22.13
अ॒स्मे ता त᳚ इन्द्र सन्तु स॒त्याहिं᳚सन्तीरुप॒स्पृशः᳚ ।
वि॒द्याम॒ यासां॒ भुजो᳚ धेनू॒नां न व᳚ज्रिवः ॥
▶ पदपाठः (Word-by-word)
अ॒स्मे इति᳚ । ता । ते॒ । इ॒न्द्र॒ । स॒न्तु॒ । स॒त्या । अहिं᳚सन्तीः । उ॒प॒॑स्पृशः᳚ ।
वि॒द्याम᳚ । यासा᳚म् । भुजः᳚ । धे॒नू॒नाम् । न । व॒ज्रि॒॑वः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र अस्मे अस्माकं स्वभूताः ता सत्या इत्युभयत्र प्रथमाबह्जुवचनस्यछान्दसआ- कारः सनि निर्देशस्याविशेषणत्वात् तास्तादृश्यः उपस्पृशः त्वामुपगम्य स्पृशन्तीत्युपस्पृशः स्तुतयः ते तव प्रसादात् सत्या सत्याः सन्तु यथार्थाभवन्तु तव सद्गुणग्राहिण्यइत्यर्थः । अपिच अहिंसन्तीः त्वां अहिंसंत्यश्च भवन्तु सतिस्तुतित्वादनुद्वेजयन्त्यश्च भवन्त्वित्यर्थः । हे वज्रिव इन्द्र यासां स्तुतीनां संबन्धेन भुजोदृष्टादृष्टान् भोगान् विद्याम वयं लभेमहि । तत्र दृष्टान्तः—धेनूनां न गवां क्षीरादिभॊगान् यथा गोस्वामी लभते तद्वत् । ताः सत्या- भवन्त्विति पूर्वेणान्वयः ॥ १३ ॥