त्वं न᳚ इन्द्र शूर॒ शूरै᳚रु॒त त्वोता᳚सो ब॒र्हणा᳚ ।
पु॒रु॒त्रा ते॒ वि पू॒र्तयो॒ नव᳚न्त क्षो॒णयो᳚ यथा ॥
पु॒रु॒त्रा ते॒ वि पू॒र्तयो॒ नव᳚न्त क्षो॒णयो᳚ यथा ॥
पदपाठः (Word-by-word)
त्वम् । नः॒ । इ॒न्द्र॒ । शू॒र॒ । शूरैः᳚ । उ॒त । त्वा॑ऊ᳚तासः । ब॒र्हणा᳚ ।
पु॒रु॒॑त्रा । ते॒ । वि । पू॒र्तयः᳚ । नव᳚न्त । क्षो॒णयः᳚ । य॒था॒ ॥
पु॒रु॒॑त्रा । ते॒ । वि । पू॒र्तयः᳚ । नव᳚न्त । क्षो॒णयः᳚ । य॒था॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे शूर विक्रान्तेन्द्र त्वं शूरैः भटैः प्ररुद्भिः सहितः सन् नोस्मान् पाहीति शेषः उत अपिच त्वोतासः त्वया रक्षितावयं बर्हणा परिबर्हणायां शत्रूणां हिंसायां समर्थाभवेम । किंच ते त्वदीया पूर्तयः कामानां पूरणानि ईप्सितार्थप्रदानानि पुरुत्रा बहून् स्तोतॄन् विनवन्त विविधं व्याप्नुवन्ति क्षोणयः मनुष्यनामैतत् मनुष्याः स्वकीयं स्वामिनं सेवार्थं यथा व्याप्नुवन्ति तद्वत् ॥ ९ ॥