श्रवणम्

10.22.6
अध॒ ग्मन्तो॒शना᳚ पृच्छते वां॒ कद᳚र्था न॒ आ गृ॒हम् ।
आ ज᳚ग्मथुः परा॒काद्दि॒वश्च॒ ग्मश्च॒ मर्त्य᳚म् ॥
▶ पदपाठः (Word-by-word)
अध᳚ । ग्मन्ता᳚ । उ॒शना᳚ । पृ॒च्छ॒ते॒ । वा॒म् । कत्॑अ᳚र्था । नः॒ । आ । गृ॒हम् ।
आ । ज॒ग्म॒थुः॒ । प॒रा॒कात् । दि॒वः । च॒ । ग्मः । च॒ । मर्त्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अधाथ यज्ञसमाप्त्यनन्तरं उशना भार्गवऋषिः हे इन्द्राग्नी ग्मन्ता स्वस्थानं प्रतिगच्छ न्तौ वांयुवां सर्वोयजमानः पृच्छते पृच्छतिस्म । यद्वा उशनेति विभक्तिव्यत्ययः उशनसं इन्द्रस्य सखिभूतं भार्गवं इन्द्रं च युवां सर्वोयजमानः पृच्छति । किं पृष्टवानिति उच्यते- युवां कदर्था कदर्थौ किंप्रयोजनवन्तौ स्थः । तदेवोक्तं दिवश्च द्युलोकाच्च ग्मश्च भूलोकाच्च मर्त्यं मनुष्यं मां प्रत्यागतवन्तौ युवयोः कृतार्थत्वादत्रगमनमस्मदनुग्रहार्थमेव न स्वार्थमिति ब्रुवन्ननुव्रजतीत्यर्थः ॥ ६ ॥