नाभ्या᳚ आसीद॒न्तरि᳚क्षं शी॒र्ष्णो द्यौः सम᳚वर्तत ।
प॒द्भ्यां भूमि॒र्दिश॒ः श्रोत्रा॒त्तथा᳚ लो॒का{4} अ᳚कल्पयन् ॥
प॒द्भ्यां भूमि॒र्दिश॒ः श्रोत्रा॒त्तथा᳚ लो॒का{4} अ᳚कल्पयन् ॥
पदपाठः (Word-by-word)
नाभ्याः᳚ । आ॒सी॒त् । अ॒न्तरि᳚क्षम् । शी॒र्ष्णः । द्यौः । सम् । अ॒व॒र्त॒त॒ ।
प॒त्॑भ्याम् । भूमिः᳚ । दिशः᳚ । श्रोत्रा᳚त् । तथा᳚ । लो॒कान् । अ॒क॒ल्प॒य॒न् ॥
प॒त्॑भ्याम् । भूमिः᳚ । दिशः᳚ । श्रोत्रा᳚त् । तथा᳚ । लो॒कान् । अ॒क॒ल्प॒य॒न् ॥
सायणभाष्यम् (Sayana Commentary)
यथा चन्द्रादीन्प्रजापत्रेमनः प्रभृतिभ्योऽकल्पयन् तथान्तरिक्षादींल्लोकान्प्रजापतेर्नाभ्यादिभ्यो देवा अकल्पयन्। उद्पादितवन्तः। एतदेवदर्शयति। नाभ्याः प्रजापतेर्नाभेरन्तरिक्षमासीत्। शीर्ष्णः शिरसो द्यौः समवर्तत। उत्पन्ना। अस्य पद्भ्यां पादाभ्यां भूमिरुत्पन्ना। अस्य श्रोत्राद्दिश उत्पन्नाः॥१५॥