त्रि॒पादू॒र्ध्व उदै॒त्पुरु᳚ष॒ः पादो᳚॑स्ये॒हाभ᳚व॒त्पुनः᳚ ।
ततो॒ विष्व॒ङ्व्य᳚क्रामत्साशनानश॒ने अ॒भि ॥
ततो॒ विष्व॒ङ्व्य᳚क्रामत्साशनानश॒ने अ॒भि ॥
पदपाठः (Word-by-word)
त्रि॒॑पात् । ऊ॒र्ध्वः । उत् । ऐ॒त् । पुरु᳚षः । पादः᳚ । अ॒स्य॒ । इ॒ह । अ॒भ॒व॒त् । पुन॒रिति᳚ ।
ततः᳚ । विष्व᳚ङ् । वि । अ॒क्रा॒म॒त् । सा॒श॒ना॒न॒श॒ने इति᳚ । अ॒भि ॥
ततः᳚ । विष्व᳚ङ् । वि । अ॒क्रा॒म॒त् । सा॒श॒ना॒न॒श॒ने इति᳚ । अ॒भि ॥
सायणभाष्यम् (Sayana Commentary)
योऽयं त्रिपात्पुरुषः संसाररहितो ब्रह्मस्वरूपः सोऽयमूर्ध्व उदैत्। अस्मादज्ञानकार्यात्संसाराद्बर्हिर्भूतोऽत्रत्यैर्गुणदोषैरस्पृष्ट उत्कर्षेण स्थितवान्। तस्याऽस्य सोऽयं पादो लेशः सोऽयमिह मायायां पुनरभवत्। सृष्तिसंहाराभ्यां पुनः पुनरागच्छति। अस्य सर्वस्य जगतः परमात्मलेशत्वं भगवताप्युक्तम्। विष्तभ्याहमिदं कृत्स्नमेकांशेन स्तितो जगत्। भ. गी. १०-४२। इति। ततो मायायामागत्यानन्तरं विष्वङ् देवमनुष्यतिर्यगादिरुपेण विविधः सन् व्यक्रामत्। व्याप्तवान्। किं कृत्वा। साशनानशने अभिलक्ष्य। साशनं भोजनादिव्यवहारोपेतं चेतनं प्राणिजातं अनशनं तद्रहितमचेतनं गिरिनद्यादिकम् । तदुभयं यथा स्यात्तथा स्वयमेव विविधो भुत्वा व्याप्तवानित्यर्थः॥४॥