श्रवणम्

10.90.13
च॒न्द्रमा॒ मन᳚सो जा॒तश्चक्षो॒ः सूर्यो᳚ अजायत ।
मुखा॒दिन्द्र᳚श्चा॒ग्निश्च᳚ प्रा॒णाद्वा॒युर᳚जायत ॥
▶ पदपाठः (Word-by-word)
च॒न्द्रमाः᳚ । मन᳚सः । जा॒तः । चक्षोः᳚ । सूर्यः᳚ । अ॒जा॒य॒त॒ ।
मुखा᳚त् । इन्द्रः᳚ । च॒ । अ॒ग्निः । च॒ । प्रा॒णात् । वा॒युः । अ॒जा॒य॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यथा दध्याज्यादिद्रव्याणि गवादयः पशव ऋगादिवेदा ब्राह्मनादयो मनुष्याश्च तस्मदुत्पन्ना एवं चन्द्रादयो देवा अपि तस्मादेवोत्पन्ना इत्याह। प्रजापतेर्मनसः सकाशाच्चन्द्रमा जातः। चक्षोश्च चक्शुषः सूर्योऽप्यजायत। अस्य मुखादिन्द्रश्चाग्निश्च देवावुत्पन्नौ। अस्य प्रानाद्वायुरजायत॥१४॥