श्रवणम्

10.90.16
य॒ज्ञेन᳚ य॒ज्ञम᳚यजन्त दे॒वास्तानि॒ धर्मा᳚णि प्रथ॒मान्या᳚सन् ।
ते ह॒ नाकं᳚ महि॒मानः᳚ सचन्त॒ यत्र॒ पूर्वे᳚ सा॒ध्याः सन्ति᳚ दे॒वाः ॥
▶ पदपाठः (Word-by-word)
य॒ज्ञेन᳚ । य॒ज्ञम् । अ॒य॒ज॒न्त॒ । दे॒वाः । तानि᳚ । धर्मा᳚णि । प्र॒थ॒मानि᳚ । आ॒स॒न् ।
ते । ह॒ । नाक᳚म् । म॒हि॒मानः᳚ । स॒च॒न्त॒ । यत्र᳚ । पूर्वे᳚ । सा॒ध्याः । सन्ति᳚ । दे॒वाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूर्वं प्रपञ्चेनोक्तमर्थं संक्षिप्यात्र दर्शयति। देवाः प्रजापतिप्राणरूपा यज्ञेन यथोक्तेन मानसेन सङ्कल्पेन यज्ञं यथोक्तयज्ञस्वरूपं प्रजापतिमयजन्त। पूजितवन्तः। तस्मात्पूजनात्तानि प्रसिद्धानि धर्माणि जगद्रूपविकारानां धारकाणि प्रथमानि मुख्यान्यासन्। एतावाता सृष्टिप्रतिपादकसूक्तभागार्थः सङ्गृहीतः। अथोपासनतत्फलानुवादकभागार्थः सङ्गृह्यते। यत्र यस्मिन्विराट् प्राप्तिरूपे नाके पूर्वे साध्याः पुरातना विराडुइपास्तिसाधका देवाः सन्ति तिष्ठन्ति तन्नाकं विराट्प्राप्तिरूपं स्वर्गं ते महिमानस्तदुपासका महात्मानः सचन्त। समवयन्ति। प्राप्नुवन्ति॥१७॥