श्रवणम्

10.67.12
इन्द्रो᳚ म॒ह्ना म᳚ह॒तो अ᳚र्ण॒वस्य॒ वि मू॒र्धान᳚मभिनदर्बु॒दस्य᳚ ।
अह॒न्नहि॒मरि᳚णात्स॒प्त सिन्धू᳚न्दे॒वैर्द्या᳚वापृथिवी॒ प्राव᳚तं नः ॥
▶ पदपाठः (Word-by-word)
इन्द्रः᳚ । म॒ह्ना । म॒ह॒तः । अ॒र्ण॒वस्य᳚ । वि । मू॒र्धान᳚म् । अ॒भि॒न॒त् । अ॒र्बु॒दस्य᳚ ।
अह᳚न् । अहि᳚म् । अरि᳚णात् । स॒प्त । सिन्धू᳚न् । दे॒वैः । द्या॒वा॒पृ॒थि॒वी॒ इति᳚ । प्र । अ॒व॒त॒म् । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्र ईश्वरो मह्ना महत्त्वेन युक्तो बृहस्पतिर्महतो अर्णवस्योदकवतोऽर्बुदस्यांबुदस्य मेघस्य मूर्धानं शिरो व्यभिनत्। व्यच्छिनत्। तदुच्यते। अहिमहंतव्यमपामावरकं शत्रुमहन्। अवधित्। अतः सप्त सर्पणशीलाः सिन्धून् स्यन्दमाना अपः। यद्वा। सप्तसङ्ख्याका गाङ्गाद्या नदीः। अरिणात्। समुद्रं प्रत्यगमयत्। अथ प्रत्यक्षकृतः। हे द्यावापृथिव्यौ देवैः सह नोऽस्मान्प्रवतम्। प्ररक्शतम्॥१२॥