श्रवणम्

10.67.11
स॒त्यामा॒शिषं᳚ कृणुता वयो॒धै की॒रिं चि॒द्ध्यव᳚थ॒ स्वेभि॒रेवै᳚ः ।
प॒श्चा मृधो॒ अप᳚ भवन्तु॒ विश्वा॒स्तद्रो᳚दसी शृणुतं विश्वमि॒न्वे ॥
▶ पदपाठः (Word-by-word)
स॒त्याम् । आ॒॑शिष᳚म् । कृ॒णु॒त॒ । व॒यः॒॑धै । की॒रिम् । चि॒त् । हि । अव᳚थ । स्वेभिः᳚ । एवैः᳚ ।
प॒श्चा । मृधः᳚ । अप᳚ । भ॒व॒न्तु॒ । विश्वाः᳚ । तत् । रो॒द॒सी॒ इति᳚ । शृ॒णु॒त॒म् । वि॒श्व॒मि॒न्वे इति᳚ वि॒श्व॒म्॑इ॒न्वे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे बृहस्पतिप्रभृतयो देवा वयोधा अन्नस्य धानायास्मदीयामाशिषम् स्तुतिं सत्यां यथार्थं कृणुत। कुरुत। तथाद् यूयं स्वेभिरात्मीयैरेवैर्गमनैः कीरिं स्तोतारं मामवथ। रक्षथ। हिरवधारणे। पश्चा च छन्दसि। पा. ५-३-३३। इति निपातितः। पश्चादिश्वाः सर्वा मृधो हिंसित्र्योऽप भवन्तु। नश्यन्तु। तदिदमस्माभिरुक्तं वचनं हे विश्वमिन्वे विश्वस्य प्रीणयित्र्यौ हे रोदसी द्यावापृथिव्यौ शृणुतम्॥११॥