त्वया᳚ व॒यं शा᳚शद्महे॒ रणे᳚षु प्र॒पश्य᳚न्तो यु॒धेन्या᳚नि॒ भूरि᳚ ।
चो॒दया᳚मि त॒ आयु᳚धा॒ वचो᳚भि॒ः सं ते᳚ शिशामि॒ ब्रह्म᳚णा॒ वयां᳚सि ॥
चो॒दया᳚मि त॒ आयु᳚धा॒ वचो᳚भि॒ः सं ते᳚ शिशामि॒ ब्रह्म᳚णा॒ वयां᳚सि ॥
पदपाठः (Word-by-word)
त्वया᳚ । व॒यम् । शा॒श॒द्म॒हे॒ । रणे᳚षु । प्र॒॑पश्य᳚न्तः । यु॒धेन्या᳚नि । भूरि᳚ ।
चो॒दया᳚मि । ते॒ । आयु᳚धा । वचः᳚॑भिः । सम् । ते॒ । शि॒शा॒मि॒ । ब्रह्म᳚णा । वयां᳚सि ॥
चो॒दया᳚मि । ते॒ । आयु᳚धा । वचः᳚॑भिः । सम् । ते॒ । शि॒शा॒मि॒ । ब्रह्म᳚णा । वयां᳚सि ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र त्वयानुगृहीता वयं रणेषु सङ्ग्रामेषु शाशद्महे। भृशं शत्रूञ्शातयामः। शद्लु शातने। अस्माद्यङन्तान्महिङश्छन्दस्युभयथेत्यार्धधातुकत्वादतोलोपयलोपौ। किं कुर्वन्तः। युधेन्यानि योधनार्हाणि। कृत्यार्थे तवैकेन्केन्यत्वन इति युधेरर्हार्थे केन्यप्रत्ययः। भूरि बहूनि बहुलानि। सुपां सुलुगिति शसो लुक्। प्रपश्यन्तः प्रकर्षेण जानन्तः। अपि च ते तवायुधायुधान्यायोधनसाधनानि वज्रादीनि। शेश्चन्दसि बहुलमिति शेर्लोपः। वचोभिः स्तुतिभिश्चोदयामि। शत्रून्प्रति प्रेरयामि। ते त्वदर्थं ब्रह्मणा मन्त्रेण स्तुतिरूपेण सहितानि वयांसि। अन्ननामैतत्। हविर्लक्शणान्यन्नानि सं शिशामि। सम्यग्निश्यामि। संस्करोमीत्यर्थः। शो तनूकरणे। छान्दसो विकरणस्य श्लुः। बहुलं छन्दसीत्यभ्यासस्येत्वम्॥५॥