स्तु॒षेय्यं᳚ पुरु॒वर्प᳚स॒मृभ्व᳚मि॒नत᳚ममा॒प्त्यमा॒प्त्याना᳚म् ।
आ द᳚र्षते॒ शव᳚सा स॒प्त दानू॒न्प्र सा᳚क्षते प्रति॒माना᳚नि॒ भूरि᳚ ॥
आ द᳚र्षते॒ शव᳚सा स॒प्त दानू॒न्प्र सा᳚क्षते प्रति॒माना᳚नि॒ भूरि᳚ ॥
पदपाठः (Word-by-word)
स्तु॒षेय्य᳚म् । पु॒रु॒॑वर्प᳚सम् । ऋभ्व᳚म् । इ॒न॑त᳚मम् । आ॒प्त्यम् । आ॒प्त्याना᳚म् ।
आ । द॒र्ष॒ते॒ । शव᳚सा । स॒प्त । दानू᳚न् । प्र । सा॒क्ष॒ते॒ । प्र॒ति॒॑माना᳚नि । भूरि᳚ ॥
आ । द॒र्ष॒ते॒ । शव᳚सा । स॒प्त । दानू᳚न् । प्र । सा॒क्ष॒ते॒ । प्र॒ति॒॑माना᳚नि । भूरि᳚ ॥
सायणभाष्यम् (Sayana Commentary)
स्तुषेय्यं स्तोतव्यम्। स्तवः क्सेय्यश्छन्दसि। उ. ३-९९। इत्यौणादिकः क्सेय्यप्रत्ययः। पुरुवर्पसं बहुरूपम्रुभ्वमुरु भासमानमुरुभूतं वेनतममतिशयेनेश्वरमाप्त्यानामाप्तव्यानां मध्य आत्प्यमाप्तव्यं एवंभूतमिन्द्रं स्त्ॐईति शेषः। य मिन्रः शवसा बलेन सप्त सप्त सङ्ख्याकान्दानान्दानवान्वृत्रनमुचिकुयवादीना दर्षये आदृणाति हिनस्ति। दॄ विदारणे। अस्माल्लेटि व्यत्ययेनात्मने पदम्। लेटोऽडाटावित्यडागमः। सिब्बहुलमिति सिप्। तथा प्रतिमानान्यसुरानां प्रतिरूपाणि भूति भूरीणि बहून्यसुरबलानि प्र साक्शते य इन्द्रः प्रसहते। यद्वा। बहूनि प्रतिमानन्यसुराणां स्थानानि प्रसाक्षते प्राप्नोति। साक्षतिराप्नोतिकर्मेति यास्कः। नि. ११-१२। षह अभिभवे। लेट्यडागमः। सिब्बहुलमिति सिप्। टत्वकत्वषत्वानि। छान्दसो दीर्घः॥६॥