श्रवणम्

10.149.3
प॒श्चेदम॒न्यद᳚भव॒द्यज᳚त्र॒मम᳚र्त्यस्य॒ भुव᳚नस्य भू॒ना ।
सु॒प॒र्णो अ॒ङ्ग स᳚वि॒तुर्ग॒रुत्मा॒न्पूर्वो᳚ जा॒तः स उ᳚ अ॒स्यानु॒ धर्म᳚ ॥
▶ पदपाठः (Word-by-word)
प॒श्चा । इ॒दम् । अ॒न्यत् । अ॒भ॒व॒त् । यज᳚त्रम् । अम᳚र्त्यस्य । भुव᳚नस्य । भू॒ना ।
सु॒॑प॒र्णः । अ॒ङ्ग । स॒वि॒तुः । ग॒रुत्मा᳚न् । पूर्वः᳚ । जा॒तः । सः । ऊं॒ इति᳚ । अ॒स्य॒ । अनु᳚ । धर्म᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अन्यत्सवितृव्यतिरिक्तमिदं देवतान्तरं पश्चा पश्चात्। पश्च पश्चा च छन्दसि। पा. ५-३-३३। इति निपात्यते। सवितृप्रेरणानन्तरमेव यजत्रं यष्टव्यमभवत्। केन साधनेन। अमर्त्यस्य मरणरहितस्य भुवनस्य लोकस्य स्वर्गाख्यस्य सम्बन्धिना भूना भूतेन स्वर्ग उत्पन्नेन सोमेनेत्यर्थः। यद्वा अमर्त्यस्य भुवनस्य सम्बन्धीदं देवतान्तरं भूना भूम्ना बहुत्वेन युक्तं यष्टव्यमभवत्। कुत इत्यत आह। हे अङ्ग स्तोतः सुपर्नः शोभनपतनो गुरुत्मान्सोमस्यापहर्ता तार्क्ष्यः सवितुः प्रेरकादस्माद्देवात्पूर्वं प्रथमभावी सञ्जातः। अतो हेतोः सुपर्णो गुरुत्मानस्य सवितुर्धर्म धारनमनुसृत्य वर्तते। सवितृप्रेरणाधीनत्वात्सर्वगतीनां सोमाहरणमपि तदधीनमिति सवितृप्रेरणानन्तरमेव सर्वे सोमयागाः प्रवर्तन्त इत्यर्थः। उ इति पूरकः॥३॥