वि षु विश्वा॒ अरा᳚तयो॒॑र्यो न᳚शन्त नो॒ धियः᳚ ।
अस्ता᳚सि॒ शत्र᳚वे व॒धं यो न᳚ इन्द्र॒ जिघां᳚सति॒ या ते᳚ रा॒तिर्द॒दिर्वसु॒ नभ᳚न्तामन्य॒केषां᳚ ज्या॒का अधि॒ धन्व᳚सु ॥
अस्ता᳚सि॒ शत्र᳚वे व॒धं यो न᳚ इन्द्र॒ जिघां᳚सति॒ या ते᳚ रा॒तिर्द॒दिर्वसु॒ नभ᳚न्तामन्य॒केषां᳚ ज्या॒का अधि॒ धन्व᳚सु ॥
पदपाठः (Word-by-word)
वि । सु । विश्वा᳚ । अरा᳚तयः । अ॒र्यः । न॒श॒न्त॒ । नः॒ । धियः᳚ ।
अस्ता᳚ । अ॒सि॒ । शत्र᳚वे । व॒धम् । यः । नः॒ । इ॒न्द्र॒ । जिघां᳚सति । या । ते॒ । रा॒तिः । द॒दिः । वसु᳚ । नभ᳚न्ताम् । अ॒न्य॒केषा᳚म् । ज्या॒काः । अधि᳚ । धन्व᳚॑सु ॥
अस्ता᳚ । अ॒सि॒ । शत्र᳚वे । व॒धम् । यः । नः॒ । इ॒न्द्र॒ । जिघां᳚सति । या । ते॒ । रा॒तिः । द॒दिः । वसु᳚ । नभ᳚न्ताम् । अ॒न्य॒केषा᳚म् । ज्या॒काः । अधि᳚ । धन्व᳚॑सु ॥
सायणभाष्यम् (Sayana Commentary)
विश्वा सर्वा अरातयोऽदात्र्योऽर्योऽभिगन्त्र्यो नोऽस्माकं शत्रुभूताः प्रजाः सु सुष्ठु वि नशन्त। विनश्यन्तु। हे इन्द्र त्वदर्थं धियः कर्माणिस्तुतयो वा प्रवर्तंताम्। हे इन्द्र यो नोऽस्माञ्जघांसति हन्तुमिच्छति। हन्तेः सन्यज्झनगमां सनीति दीर्घः। अभ्यासाच्चेति कुत्वम्। तस्मै शत्रवे वधं हननसाधनमायुधमस्तासि। क्षेप्ता भवसि। असु क्षेपणे। ताच्छीलिकस्तृन्। ते तव या रातिर्धनप्रदानहेतुर्हस्तः। रा दाने। करणे क्तिन्। मन्त्रे वृषेशपचनमनविदभूवीरा उदात्त इति क्तिन उदात्तत्वम्। सा रार्तिर्वसु धनं ददिः। अस्मभ्यं दाता भवतु। आदृगमहन इति ददातेः किप्रत्ययः। न लोकाव्ययेति वसुशब्दात्षष्ठ्यभावः। सिद्धमन्यत्॥३॥