ऐषु᳚ चाकन्धि पुरुहूत सू॒रिषु᳚ वृ॒धासो॒ ये म᳚घवन्नान॒शुर्म॒घम् ।
अर्च᳚न्ति तो॒के तन᳚ये॒ परि᳚ष्टिषु मे॒धसा᳚ता वा॒जिन॒मह्र᳚ये॒ धने᳚ ॥
अर्च᳚न्ति तो॒के तन᳚ये॒ परि᳚ष्टिषु मे॒धसा᳚ता वा॒जिन॒मह्र᳚ये॒ धने᳚ ॥
पदपाठः (Word-by-word)
आ । ए॒षु॒ । चा॒क॒न्धि॒ । पु॒रु॒॑हू॒त॒ । सू॒रिषु᳚ । वृ॒धासः᳚ । ये । म॒घ॒॑व॒न् । आ॒न॒शुः । म॒घम् ।
अर्च᳚न्ति । तो॒के । तन᳚ये । परि᳚ष्टिषु । मे॒ध॑सा᳚ता । वा॒जिन᳚म् । अह्र᳚ये । धने᳚ ॥
अर्च᳚न्ति । तो॒के । तन᳚ये । परि᳚ष्टिषु । मे॒ध॑सा᳚ता । वा॒जिन᳚म् । अह्र᳚ये । धने᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे पुरुहूतेन्द्र एषु सुरिष्वा चाकन्धि। अथर्थमभिदीप्यस्व। अभिकामयस्व। कनी दीप्तिकान्तिगतिषु। अस्माच्चर्करीतमेतत्। हे मघवन्धनवन्निन्द्र ये सूरयो वृधानस्त्वत्प्रसादाद्वर्धमानाः सन्तो मघं धनमानशुः प्राप्नुवन्ति। अपि च मेधसाता मेधसातौ यज्ञे वाजिनं बलवन्तमन्नवन्तं वेजनवन्तं वा त्वां येऽर्चन्ति पूजयन्ति तोके पुत्रे तनये तत्पुत्रे परिष्टिषु परित इष्यमानेष्वन्येष्वपि फलेष्वह्रयेऽलजाकरे धने द। एतेषु निमित्तेषु सत्सु त्वामेव स्तुश्त्यादिभिः पूजयन्तीत्यर्थः॥३॥