त्वं मा॒याभि᳚रनवद्य मा॒यिनं᳚ श्रवस्य॒ता मन᳚सा वृ॒त्रम᳚र्दयः ।
त्वामिन्नरो᳚ वृणते॒ गवि᳚ष्टिषु॒ त्वां विश्वा᳚सु॒ हव्या॒स्विष्टि᳚षु ॥
त्वामिन्नरो᳚ वृणते॒ गवि᳚ष्टिषु॒ त्वां विश्वा᳚सु॒ हव्या॒स्विष्टि᳚षु ॥
पदपाठः (Word-by-word)
त्वम् । मा॒याभिः᳚ । अ॒न॒व॒द्य॒ । मा॒यिन᳚म् । श्र॒व॒स्य॒ता । मन᳚सा । वृ॒त्रम् । अ॒र्द॒यः॒॒ ।
त्वाम् । इत् । नरः᳚ । वृ॒ण॒ते॒ । गो॑इ᳚ष्टिषु । त्वाम् । विश्वा᳚सु । हव्या᳚सु । इष्टि᳚षु ॥
त्वाम् । इत् । नरः᳚ । वृ॒ण॒ते॒ । गो॑इ᳚ष्टिषु । त्वाम् । विश्वा᳚सु । हव्या᳚सु । इष्टि᳚षु ॥
सायणभाष्यम् (Sayana Commentary)
हे अनवद्यावद्यरहित प्रशस्येन्द्र त्वं मायिनं मायाविनं वृत्रं मायाभिर्वञ्चनाभिर्बुद्धिविशेषैर्वा श्रवस्यता श्रवः श्रवणीयं यशोऽन्नं वेच्छता मनसार्दयः। अहिंसीः। अपि च नरो नेतारोऽङ्गिरसस्त्वामित्त्वामेव गविष्टिषु गवां पणिभिरपहृतानामेषणेषु प्रापणेषु विषयभूतेषु वृणते। सम्भजन्ते। तथा विश्वासु सर्वासु हव्यस्वाह्वातव्यासु प्रार्थनीयास्विष्टिषु यागक्रियासु त्वामेव वृणते॥२॥