श्रवणम्

10.169.1
म॒यो॒भूर्वातो᳚ अ॒भि वा᳚तू॒स्रा ऊर्ज᳚स्वती॒रोष᳚धी॒रा रि᳚शन्ताम् ।
पीव᳚स्वतीर्जी॒वध᳚न्याः पिबन्त्वव॒साय᳚ प॒द्वते᳚ रुद्र मृळ ॥
▶ पदपाठः (Word-by-word)
म॒यः॒॑भूः । वातः᳚ । अ॒भि । वा॒तु॒ । उ॒स्राः । ऊर्ज᳚स्वतीः । ओष᳚धीः । आ । रि॒श॒न्ता॒म् ।
पीव᳚स्वतीः । जी॒व॑ध᳚न्याः । पि॒ब॒न्तु॒ । अ॒व॒साय᳚ । प॒त्॑वते᳚ । रु॒द्र॒ । मृ॒ळ॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मयोभूरिति। चतुरृचमष्टादशं सूक्तं कक्षीवद्गोत्रस्य शबरस्यर्षम् त्रैष्टुभम् गोदेवत्यम्। अनुक्रान्तं च। मयोभूः शबरः काक्षीवतो गव्यमिति। घासाय वनं प्रतिष्ठमाना गा आदितो द्वाभ्यामभिमन्त्रणीयाः। सूत्रितं च। गाः प्रतिष्ठमाना अनुमन्त्रयेत मयोभूर्वातो अभि वातूस्रा इति द्वाभ्याम् । आ. गृ. २-१०-५। इति॥

वातो वायुर्मयोभूः सुखस्य भावयिता सन्नुस्रा गा अभि वातु। अभिगच्छतु। ताश्च गाव ऊर्जस्वती रसवतीरोषधीर्बलवन्ति तृणान्या रिशन्ताम्। अभितः स्वादयन्तु। तथा पीवस्वतीः प्रवृद्धा जीवधन्या जीवानां प्राणयित्रीरपश्च पिबन्तु। हे रुद्र ज्वरादिरोगस्य प्रेक्षणेन संहर्तर्देव पद्वते पादयुक्तायावसायान्नाय गोरूपाय मृळ। उपदयां कुरु। मा बाधस्वेत्यर्थः॥१॥