श्रवणम्

10.85.9 समानपद
सोमो᳚ वधू॒युर᳚भवद॒श्विना᳚स्तामु॒भा व॒रा ।
सू॒र्यां यत्पत्ये॒ शंस᳚न्तीं॒ मन᳚सा सवि॒ताद᳚दात् ॥
▶ पदपाठः (Word-by-word)
सोमः᳚ । व॒धू॒॑युः । अ॒भ॒व॒त् । अ॒श्विना᳚ । आ॒स्ता॒म् । उ॒भा । व॒रा ।
सू॒र्याम् । यत् । पत्ये᳚ । शंस᳚न्तीम् । मन᳚सा । स॒वि॒ता । अद᳚दात् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोमो वधूयुर्वधूकामो वरोऽभवत्। तस्मिन्समयेऽश्विनाश्विनावुभोधौ वरा वरावास्ताम्। अभुताम्। यद्यदा सूर्यां पत्ये शंसन्तीं पतिं कामयमानाम् । पर्याप्तयौवनामित्यर्थः। सूर्यां मनसा सहिताय सोमाय वराय सविता तत्पिताददात् प्रादात् दित्सां चकार॥९॥