सोमो᳚ ददद्गन्ध॒र्वाय᳚ गन्ध॒र्वो द᳚दद॒ग्नये᳚ ।
र॒यिं च᳚ पु॒त्रा{4}श्चा᳚दाद॒ग्निर्मह्य॒मथो᳚ इ॒माम् ॥
र॒यिं च᳚ पु॒त्रा{4}श्चा᳚दाद॒ग्निर्मह्य॒मथो᳚ इ॒माम् ॥
पदपाठः (Word-by-word)
सोमः᳚ । द॒द॒त् । ग॒न्ध॒र्वाय᳚ । ग॒न्ध॒र्वः । द॒द॒त् । अ॒ग्नये᳚ ।
र॒यिम् । च॒ । पु॒त्रान् । च॒ । अ॒दा॒त् । अ॒ग्निः । मह्य᳚म् । अथो॒ इति᳚ । इ॒माम् ॥
र॒यिम् । च॒ । पु॒त्रान् । च॒ । अ॒दा॒त् । अ॒ग्निः । मह्य᳚म् । अथो॒ इति᳚ । इ॒माम् ॥
सायणभाष्यम् (Sayana Commentary)
सोमो गन्धर्वाय प्रथदुं ददत्। प्रादात्। गन्धर्वोऽग्नये प्रादात्। अथो अपि चाग्निरिमां कन्यां रयिं धनं पुत्रांश्च मह्यमदात्॥४१॥