तुभ्य॒मग्रे॒ पर्य᳚वहन्त्सू॒र्यां व᳚ह॒तुना᳚ स॒ह ।
पुन॒ः पति᳚भ्यो जा॒यां दा अ᳚ग्ने प्र॒जया᳚ स॒ह ॥
पुन॒ः पति᳚भ्यो जा॒यां दा अ᳚ग्ने प्र॒जया᳚ स॒ह ॥
पदपाठः (Word-by-word)
तुभ्य᳚म् । अग्रे᳚ । परि᳚ । अ॒व॒ह॒न् । सू॒र्याम् । व॒ह॒तुना᳚ । स॒ह ।
पुन॒रिति᳚ । पति᳚॑भ्यः । जा॒याम् । दाः । अ॒ग्ने॒ । प्र॒॑जया᳚ । स॒ह ॥
पुन॒रिति᳚ । पति᳚॑भ्यः । जा॒याम् । दाः । अ॒ग्ने॒ । प्र॒॑जया᳚ । स॒ह ॥
सायणभाष्यम् (Sayana Commentary)
गन्धर्वा हे अग्ने तुभ्यमग्रे पर्यवहन्। प्रायच्छन्नित्यर्थः। काम् । सूर्याम् । केन सह। वहतुना सह। त्वं च तां सूर्यां वहतुना सह सोमाय प्रायच्छः। तद्वदिदानीमपि हे अग्ने पुनः पतिभ्योऽस्मभ्यं जायां प्रजया सह दाः। देहि॥३८॥