श्रवणम्

10.85.27 समानपद
इ॒ह प्रि॒यं प्र॒जया᳚ ते॒ समृ᳚ध्यताम॒स्मिन्गृ॒हे गार्ह᳚पत्याय जागृहि ।
ए॒ना पत्या᳚ त॒न्वं१॒᳚ सं सृ᳚ज॒स्वाधा॒ जिव्री᳚ वि॒दथ॒मा व᳚दाथः ॥
▶ पदपाठः (Word-by-word)
इ॒ह । प्रि॒यम् । प्र॒॑जया᳚ । ते॒ । सम् । ऋ॒ध्य॒ता॒म् । अ॒स्मिन् । गृ॒हे । गार्ह᳚॑पत्याय । जा॒गृ॒हि॒ ।
ए॒ना । पत्या᳚ । त॒न्व᳚म् । सम् । सृ॒ज॒स्व॒ । अध᳚ । जिव्री॒ इति᳚ । वि॒दथ᳚म् । आ । व॒दा॒थः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इह प्रियमित्येषा वध्वा गृहप्रवेशनी। सूत्रितं च। इह प्रियं प्रजया ते समृध्यतामिति गृहं प्रवेशयेत्। आ. गृ. १-८-८। इति॥

हे वधु ते तवेहास्मिन्पतिकुले प्रियं प्रजया सह समृध्यताम्। अस्मिन्गृहे गार्हपत्याय गृहपतित्वाय जागृहि। बुध्यस्व्व। एनानेन पत्या सह तन्वं स्वीयं शरीरं सं सृजस्व। संसृष्टाभव। अधाथ जिव्री जीर्णौ जायापती युवां विधथं गृहमा वदाथः। आभिमुख्येन वदतम्॥२७॥