श्रवणम्

10.85.39 समानपद
पुन॒ः पत्नी᳚म॒ग्निर᳚दा॒दायु᳚षा स॒ह वर्च᳚सा ।
दी॒र्घायु᳚रस्या॒ यः पति॒र्जीवा᳚ति श॒रदः᳚ श॒तम् ॥
▶ पदपाठः (Word-by-word)
पुन॒रिति᳚ । पत्नी᳚म् । अ॒ग्निः । अ॒दा॒त् । आयु᳚षा । स॒ह । वर्च᳚सा ।
दी॒र्घ॑आ᳚युः । अ॒स्याः॒ । यः । पतिः᳚ । जीवा᳚ति । श॒रदः᳚ । श॒तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुनः स्वगृहीतां पत्नीमग्निरायुषा सह वर्चसा सहादात्। प्रायच्छत्। अस्या अग्निदत्ताया यः पतिः पुमान् स दीर्घायुः सञ्शरदः शतं शतसंवत्सरं जीवाति। जीवतु॥३९॥