श्रवणम्

10.85.20
सु॒किं॒शु॒कं श᳚ल्म॒लिं वि॒श्वरू᳚पं॒ हिर᳚ण्यवर्णं सु॒वृतं᳚ सुच॒क्रम् ।
आ रो᳚ह सूर्ये अ॒मृत᳚स्य लो॒कं स्यो॒नं पत्ये᳚ वह॒तुं कृ᳚णुष्व ॥
▶ पदपाठः (Word-by-word)
सु॒॑किं॒शु॒कम् । श॒ल्म॒लिम् । वि॒श्व॑रू᳚पम् । हिर᳚ण्य॑वर्णम् । सु॒॑वृत᳚म् । सु॒॑च॒क्रम् ।
आ । रो॒ह॒ । सू॒र्ये॒ । अ॒मृत᳚स्य । लो॒कम् । स्यो॒नम् । पत्ये᳚ । व॒ह॒तुम् । कृ॒णु॒ष्व॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुकिंशुकं शोभनकिंशुकवृक्षनिर्मितं तथा शल्मलिं शल्मलिवृक्षनिर्मितं विश्वरूपं नानारूपं हिरण्यवर्णं हितरमणीयवर्णं हिरण्यालङ्कारयुक्तं वा सुवृतं सुष्ठुवर्तनं सुचक्रं शोभनचक्रोपेतं रथं हे सुर्य आ रोह। अमृतस्य लोकं स्थानं स्योनं सुखकरं पत्ये सोमाय वहतुं वहनमात्मनः प्रापणं कृणुष्व। कुरुष्व। अत्र निरुक्तम्। १२-८। द्रष्टव्यम्॥२०॥