श्रवणम्

10.85.7
चित्ति᳚रा उप॒बर्ह᳚णं॒ चक्षु᳚रा अ॒भ्यञ्ज᳚नम् ।
द्यौर्भूमि॒ः कोश᳚ आसी॒द्यदया᳚त्सू॒र्या पति᳚म् ॥
▶ पदपाठः (Word-by-word)
चित्तिः᳚ । आः॒ । उ॒प॒॑बर्ह᳚णम् । चक्षुः᳚ । आः॒ । अ॒भि॒॑अञ्ज᳚नम् ।
द्यौः । भूमिः᳚ । कोशः᳚ । आ॒सी॒त् । यत् । अया᳚त् । सू॒र्या । पति᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

चित्तिर्देवतोपबर्हणमाः। आसीत्। चक्षुरभ्यञ्जनमाः। आसीत्। तथा हि। वृत्रस्य कनीनिका परापतत्त्रिककुन्नामपर्वते। तेन त्रैककुदेनाञ्जनसजतीयेन चक्षुषी आञ्जते। तच्चक्षुरेवाञ्जनमासिदिति। द्यौश्च भुमिश्च कोश आसीत्। कोषस्थानीये अभुताम्। यद्यदा सूर्या पतिं स्वकीयं नवभर्तारं सोम मयात् अगच्छत् तदैवमुपकरणान्यासन्॥७॥