सु॒म॒ङ्ग॒लीरि॒यं व॒धूरि॒मां स॒मेत॒ पश्य᳚त ।
सौभा᳚ग्यमस्यै द॒त्त्वायाथास्तं॒ वि परे᳚तन ॥
सौभा᳚ग्यमस्यै द॒त्त्वायाथास्तं॒ वि परे᳚तन ॥
पदपाठः (Word-by-word)
सु॒॑म॒ङ्ग॒लीः । इ॒यम् । व॒धूः । इ॒माम् । स॒म्॑एत᳚ । पश्य᳚त ।
सौभा᳚ग्यम् । अ॒स्यै॒ । द॒त्त्वाय᳚ । अथ᳚ । अस्त᳚म् । वि । परा᳚ । इ॒त॒न॒ ॥
सौभा᳚ग्यम् । अ॒स्यै॒ । द॒त्त्वाय᳚ । अथ᳚ । अस्त᳚म् । वि । परा᳚ । इ॒त॒न॒ ॥
सायणभाष्यम् (Sayana Commentary)
इयं वधूः सुमङ्गलीः शोभनमङ्गला। अत इमां सर्व अशीः कर्तारः समेत। सङ्गच्छत। तां पश्यत च। तां सङ्गताश्च दृष्ट्वास्या ऊढायै सौभाग्यं दत्त्वाय दत्त्वाथास्तम्। गृहनामैतत्। स्वस्वसम्बन्धिनं वि परेतन। विविधं परागच्छत॥३३॥