श्रवणम्

10.85.17
सू॒र्यायै᳚ दे॒वेभ्यो᳚ मि॒त्राय॒ वरु᳚णाय च ।
ये भू॒तस्य॒ प्रचे᳚तस इ॒दं तेभ्यो᳚॑करं॒ नमः᳚ ॥
▶ पदपाठः (Word-by-word)
सू॒र्यायै᳚ । दे॒वेभ्यः᳚ । मि॒त्राय᳚ । वरु᳚णाय । च॒ ।
ये । भू॒तस्य᳚ । प्र॑चे᳚तसः । इ॒दम् । तेभ्यः᳚ । अ॒क॒र॒म् । नमः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सूर्यायै सूर्यस्य पत्न्यै देवेभ्योऽग्न्यादिभ्यो मित्राय वरुणाय च ये च भुतस्य भूतजातस्य प्रचेतसः सुमतयोऽभिमतप्रदा भवन्ति तेभ्यः सर्वेभ्य इदं नमो नमस्कारमकरम्। करोमि॥१७॥