पू॒र्वा॒प॒रं च᳚रतो मा॒ययै॒तौ शिशू॒ क्रीळ᳚न्तौ॒ परि᳚ यातो अध्व॒रम् ।
विश्वा᳚न्य॒न्यो भुव᳚नाभि॒चष्ट᳚ ऋ॒तू{4}र॒न्यो वि॒दध᳚ज्जायते॒ पुनः᳚ ॥
विश्वा᳚न्य॒न्यो भुव᳚नाभि॒चष्ट᳚ ऋ॒तू{4}र॒न्यो वि॒दध᳚ज्जायते॒ पुनः᳚ ॥
पदपाठः (Word-by-word)
पू॒र्व॒॑अ॒प॒रम् । च॒र॒तः॒ । मा॒यया᳚ । ए॒तौ । शिशू॒ इति᳚ । क्रीळ᳚न्तौ । परि᳚ । या॒तः॒ । अ॒ध्व॒रम् ।
विश्वा᳚नि । अ॒न्यः । भुव᳚ना । अ॒भि॒॑चष्टे᳚ । ऋ॒तून् । अ॒न्यः । वि॒॑दध᳚त् । जा॒य॒ते॒ । पुन॒रिति᳚ ॥
विश्वा᳚नि । अ॒न्यः । भुव᳚ना । अ॒भि॒॑चष्टे᳚ । ऋ॒तून् । अ॒न्यः । वि॒॑दध᳚त् । जा॒य॒ते॒ । पुन॒रिति᳚ ॥
सायणभाष्यम् (Sayana Commentary)
कश्चित्पूर्वं गच्छति सूर्यः। अन्यस्तमनुचरति चन्द्रमाः। एवं पुर्वापरं पौर्वापर्येण मायया स्वप्रज्ञानेनैतावादित्यचन्द्रौ चरतः। गच्छतो दिवि। तौ शिशू। शिशुवद्भ्रमणाज्जायमानत्वाद्वा शिशू इत्युच्येते। शिशू सन्तौ क्रीळन्तावन्तरिक्षे विहरन्तावध्वरं परि यातः। यज्ञं प्रति गच्छतः। तयोरन्य आदित्यो विश्वानि भुवनान्यभिचष्टे। अभिपश्यति। ऋतूह्न्वसन्तादीनन्यश्चन्द्रमा विदधत्कुर्वन्मासानर्धमासांश्च कुर्वन्पुनर्बायते। यद्युभयोरपि पुनर्जातिरस्ति तथापि सूर्यस्य सर्वदा प्रवृद्धेरुदयो नाभिप्रेतः। चन्द्रस्य तु ह्रासवृद्धिसद्भावात्पुनः पुनर्जायत इत्युक्तिर्युक्ता। चन्द्रमा वै जायते पुनः। तै. ब्रा. ३-९-५-४। इत्यादिश्रुतेः॥१८॥