सोमः᳚ प्रथ॒मो वि᳚विदे गन्ध॒र्वो वि᳚विद॒ उत्त᳚रः ।
तृ॒तीयो᳚ अ॒ग्निष्टे॒ पति᳚स्तु॒रीय᳚स्ते मनुष्य॒जाः ॥
तृ॒तीयो᳚ अ॒ग्निष्टे॒ पति᳚स्तु॒रीय᳚स्ते मनुष्य॒जाः ॥
पदपाठः (Word-by-word)
सोमः᳚ । प्र॒थ॒मः । वि॒वि॒दे॒ । ग॒न्ध॒र्वः । वि॒वि॒दे॒ । उत्॑त᳚रः ।
तृ॒तीयः᳚ । अ॒ग्निः । ते॒ । पतिः᳚ । तु॒रीयः᳚ । ते॒ । म॒नु॒ष्य॒॑जाः ॥
तृ॒तीयः᳚ । अ॒ग्निः । ते॒ । पतिः᳚ । तु॒रीयः᳚ । ते॒ । म॒नु॒ष्य॒॑जाः ॥
सायणभाष्यम् (Sayana Commentary)
जातां कन्यां सोमः प्रथमभावी सन् विविदे। लब्धवान्। गन्धर्व उत्तरः सन् विविदे। लब्धवान्। अग्निस्तृतीयः पतिस्ते तव। पश्चान्मनुष्यजाः पतिस्तुरीयश्चतुर्थः॥४०॥