श्रवणम्

10.85.44
अघो᳚रचक्षु॒रप᳚तिघ्न्येधि शि॒वा प॒शुभ्य᳚ः सु॒मना᳚ः सु॒वर्चा᳚ः ।
वी॒र॒सूर्दे॒वका᳚मा स्यो॒ना शं नो᳚ भव द्वि॒पदे॒ शं चतु᳚ष्पदे ॥
▶ पदपाठः (Word-by-word)
अघो᳚र॑चक्षुः । अप᳚ति॑घ्नी । ए॒धि॒ । शि॒वा । प॒शु॑भ्यः᳚ । सु॒॑मनाः᳚ । सु॒॑वर्चाः᳚ ।
वी॒र॒॑सूः । दे॒व॑का᳚मा । स्यो॒ना । शम् । नः॒ । भ॒व॒ । द्वि॒॑पदे᳚ । शम् । चतुः᳚॑पदे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वधु त्वमघोरचक्षुः क्रोधादभयङ्करचक्षुरेधि। भव। तथापतिघ्नी भव। तथा पशुभ्यः शिवा हितकरी भव। सुमनाः सुवर्चाश्च भव। वीरसूः पुत्राणामेव प्रसवित्री देवकामा स्योना सुखकरा च भव॥४४॥